|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.76. अध्यायः 076
Mahabharata - Bhishma Parva - Chapter Topics
धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-76-0x(4151)(42014)
एवं बहुगुणं सैन्यमेवं बहुविधं परम्।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥ 6-76-1(42015)
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।
प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ 6-76-2(42016)
नातिवृद्धमबालं च न कृशं न च पीवरम् ।
लघुवृत्तायतप्रायं सागराकारमव्ययम् ॥ 6-76-3(42017)
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ 6-76-4(42018)
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ 6-76-5(42019)
कम्पनेषु च चापेषु कणपेषु च सर्वशः ।
क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ॥ 6-76-6(42020)
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् ।
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ 6-76-7(42021)
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ 6-76-8(42022)
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ 6-76-9(42023)
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः ।
न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ॥ 6-76-10(42024)
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् ।
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ 6-76-11(42025)
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः ।
लोकपालोपमैस्तात पालितं लोकविश्रुतम् ॥ 6-76-12(42026)
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।
अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ 6-76-13(42027)
महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम् ॥ 6-76-14(42028)
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्।
क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ॥ 6-76-15(42029)
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् ।
परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ॥ 6-76-16(42030)
अपारमिव गर्जन्तं सागरप्रतिमं महत्।
द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा ॥ 6-76-17(42031)
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ 6-76-18(42032)
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः ।
यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ॥ 6-76-19(42033)
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः ।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥ 6-76-20(42034)
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा ।
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ॥ 6-76-21(42035)
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय ।
यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ॥ 6-76-22(42036)
पाण्डवार्थाय नियतं देवास्तत्र समागताः ।
युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ॥ 6-76-23(42037)
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः ।
न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ॥ 6-76-24(42038)
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः ।
आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ॥ 6-76-25(42039)
अथवा भाव्यमेवं हि संजयैतेन सर्वथा ।
पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ॥ ॥ 6-76-26(42040)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-76-2 नः अस्मान् अभिकामं आकाङ्क्षमाणम्। प्रह्वनिमिपाठे प्रणतम् ॥ 6-76-3 लघुवृत्तं शीघ्रकारि। आयतप्रायं प्रांशुबहुलम् ॥ 6-76-8 आरोहे हस्त्यादीनाम्। पर्यवस्कन्दे हस्त्यादिभ्योऽवतरणे ॥ 6-76-11 मनस्वि साहंकारम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|